|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.122. अध्यायः 122
Mahabharata - Udyoga Parva - Chapter Topics
स्वदौहित्रादिदत्तपुण्यफलप्रभावेण पुनर्ययातेः स्वर्गगमनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवाच। 5-122-0x(3750)(35899)
प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः।
समारुरोह नृपतिरस्पृशन्वसुधातलम् ।
ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ॥ 5-122-1(35900)
दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः।
दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥ 5-122-2(35901)
ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ॥
ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥ 5-122-3(35902)
प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।
तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥ 5-122-4(35903)
यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।
यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥ 5-122-5(35904)
ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः ।
यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥ 5-122-6(35905)
प्राप्तवानस्मि यल्लोके क्षत्रवंशोद्भवं यशः ।
वीरशब्दफलं चैव तेन संयुज्यतां भवान् ।
यथा धर्मे रतिर्नित्यं तेन सत्येन खं व्रज ॥ 5-122-7(35906)
शिबिरौशीनरो धीमानुवाच मधुरां गिरम्।
यथा बालेषु नारीषु वैवाह्येषु तथैव च ॥ 5-122-8(35907)
सङ्गरेषु निपातेषु तथा तद्व्यसनेषु च ।
अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥ 5-122-9(35908)
यथा प्राणांश्च राज्यं च राजन्कामसुखानि च।
त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ॥ 5-122-10(35909)
यथा सत्येन मे धर्मो यथा सत्येन पावकः ।
प्रीतः शतक्रतुश्चैव तेन सत्येन खं व्रज ॥ 5-122-11(35910)
अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः।
अनेकशतयज्वानं नाहुषं प्राह धर्मवित् ॥ 5-122-12(35911)
शतशः पुण्डरीका मे गोसवाश्चरिताः प्रभो ।
क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥ 5-122-13(35912)
न मे रत्नानि न धनं न तथाऽन्ये परिच्छदा ।
क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥ 5-122-14(35913)
नारद उवाच। 5-122-15x(3751)
यथायथा हि जल्पन्ति दौहित्रास्तं नराधिपम् ।
तथतथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ॥ 5-122-15(35914)
एवं सर्वे समस्तैस्ते राजानः सुकृतैस्तदा ।
ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥ 5-122-16(35915)
दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै ।
चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः।
मातामहं महाप्राज्ञं दिवमारोपयन्त ते ॥ 5-122-17(35916)
राजान ऊचुः । 5-122-18x(3752)
राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥ ॥ 5-122-18(35917)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-122-1 प्रत्यभिज्ञातेति ॥ 5-122-5 आधाने अग्र्याधानोपलक्षिते श्रौतधर्मे ॥ 5-122-9 आपत्सु संकटेषु । व्यसनेषु द्यूतादिषु । खं स्वर्गम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|